________________
१९८
काव्यमाला ।
अथ शार्दूलललितं छन्दः—
मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ २३७ ॥
भोः शिष्याः, यत्र प्रथमं मगणः, ततः सगणः, ततो जगणः, ततः सतसाः सगणत - गणसगणा भवन्ति । दिनेशैर्द्वादशभिः ऋतुभिः षभिश्च विरतिर्यत्र तच्छार्दूलललितं छन्दो भवतीति ॥
यथा
कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् । संतोषं परमं च देवनिवहे त्रैलोक्यशरणं
श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥
उट्टवणिका यथा—ऽऽऽ, ॥S, ISI, ॥s, ss), ॥s, १८४४=७२ ॥ शार्दूलललितं निवृत्तम् ॥ अत्रापि प्रस्तारगत्याष्टादशाक्षरस्य लक्षद्वयं द्वाषष्टिसहस्राणि चतुश्चत्वारिंशदुत्तरं च शतं २६२१४४ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदा विशालबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य स्वयमूहनीया इत्यलं पल्लवेन ॥
अथैकोनविंशत्यक्षरप्रस्तारे शार्दूलविक्रीडितं छन्दः—
मोसो जो सत तो समन्तगुरवो एगूणविसावणा पिण्डोअं सउ वीस मत्त भणिअं अट्ठासि जोणी पुणो । जं छेत्तरि वण्णओ चउपओ बत्तीस रेहे मुणो
चौआलीसह हार पिङ्गलकई सद्दूलसद्दा मुणो ॥ २३८ ॥ [मः सो जः सस्तस्तः समन्तगुरव एकोनविंशतिर्वर्णाः
पिण्डौघः(?)शतं विंशतिर्मात्रा भणितेरष्टाशीतिर्योनिः पुनः । यत्र षट्सप्ततिर्वर्णाश्चतुः पद्यां द्वात्रिंशदेखाः पुनः चतुश्चत्वारिंशद्वारा पिङ्गलकविः शार्दूलसाटकं जानीत ॥]
,
भोः शिष्याः, यत्र प्रथमं मो मगणः, ततः सो सगणः, ततो जो जगणः, ततोऽपि सगण एव, अनन्तरं तगणः, ततः तो तगणः समन्तगुरवो सम्यगन्ते गुरुर्येषामेवं षङ्गणा यत्र । अत एवैकोनविंशतिर्वर्णाः पदे यत्र यत्र च चतुर्गुणितैकोनविंशतिवर्णाश्चतुःपदे षट्सप्ततिः पतन्ति । किं च पद एकादश गुरवः, अष्टौ लघवः, पदचतुष्टये चतुश्चत्वारिंशगुरवो द्वात्रिंशल्लघवः, एतस्य छन्दसः पदचतुष्टयस्य मात्रापिण्डसंख्या विंशत्युत्तरशतमात्रात्मिका भणिता । एतदुक्तं भवति – चतुश्चत्वारिंशद्गुरूणां द्विगुणाभिप्रायेणाष्टाशीति