SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १९७ मुरहरचित्रचेष्टितकलाकलापसंस्मारकं क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा--0, is, sh, Isi, sis, sis, १८४४-७२॥ यथा वा'अकृत धनेश्वरस्य युधिः यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥ अथ नाराचछन्दः___ इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥ २३५॥ भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्रामं छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा दिनकरतनयातटीकानने चारुसंचारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं तदिह मदनविभ्रमोद्धान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-,, SIS, SIS, sis, sis, १८४४७२ ॥ यथा वा'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥ अथ चित्रलेखाछन्दः मन्दाक्रान्ता ययुगलजठरा कीर्तिता चित्रलेखा ॥ २३६॥ __ भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाक्रान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविध जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्तःस्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(४)हय(७)मुनि(७)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासी दाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि । नैतादृक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्या नयनयुगमभूचित्रलेखाद्भुतायाम् ॥ उद्दवणिका यथा-sss, su, m, Iss, Iss, Iss, १८४४=७२ ॥ चित्रलेखा निवृत्ता॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy