________________
१९०
काव्यमाला।
योषापक्षेऽर्थः स्पष्टः ॥ छन्दोमार्या गणभेदेनोक्तम्-'नसमरसलैर्गः षड्वेदैर्हयैहरिणी मता' । नगणसगणमगणरगणसगणलघुगुरुभिः षड्भिर्वेदैश्चतुर्भिर्हयैः सप्तभिर्जातविश्रामा हरिणी तन्नामकं वृत्तमित्यर्थः ।। यथा'सुरभिरजनी याता भूयः कृशो भविता शशी
परभृतयुवा मूको भावी विरंस्यति पञ्चमः । कुसुमविशिखः संहर्ता स्वं धनुः पतिरेष्यति
प्रियसखि परावृत्तं न स्याद्गतं मम जीवितम् ॥ उध्वणिका यथा-n, is, s, ss, S, Ish, I, su. यथा वा'व्यधित स विधिर्ने नीत्वा ध्रुवं हरिणीगणा
द्जमृगदृशां संदोहस्योल्लसन्नयनश्रियम् । यदयमनिशं दूर्वाश्यामे मुरारिकलेवरे
व्यकिरदधिकं बद्धाकाङ्को विलोलविलोचनम् ॥' यथा वा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे' इत्यादि रघौ ॥ हरिणी निवृत्ता॥ अथ वंशपत्रपतितं छन्दः
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ २२२ ॥ यत्र दिक्षु दशसु मुनिषु सप्तसु च विश्रामः, तथा भरनभनलगैः भगणरगणनगणभगणनगणलघुगुरुभिर्वेशपत्रपतिताख्यं छन्दो भवति ॥
• यथा
'नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो
वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥' - 'संप्रति लब्धजन्मशतकैः कथमपि लघुनि' इति भारवौ ॥ वंशपत्रपतितति के. चित् । वंशवदनमिति शंभौ नामान्तरमुक्तामिति ॥ उटवणिका यथा-su, sis,m, su,1,, 5, १७४४-६८ ॥ वंशपत्रपतितं निवृत्तम् ॥