SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । यथा 'भुजोत्क्षेपः शून्ये चलवलयझंकारयुक्तो मुधापादन्यासप्रकटिततुलाकोटिनादः । स्मितं वक्रेऽकस्मादृशि पटुकटाक्षोर्मिलीला हरौ जीयादीदृक्प्रवरललितं बल्लवीनाम् ॥' उद्दवणिका यथा-Iss,sss,m, us,sis, 5, १६४४०६४॥प्रवरललितं निवृत्तम्।। अथ गरुडरुतं छन्दः गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ २१५॥ यदा नजौ नगणजगणौ भवतः, ततो भजतगाः भगणजगणतगणगुरवः स्युः, तदा गरुडरुतं नाम वृत्तं भवतीति ॥ यथा'अमरमयूरमानसमुदे पयोदध्वनि र्गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥' उद्ववणिका यथा-1, ISI, SI, Isi, ss), S, १६४४६४॥ गरुडरुतं निवृत्तम् ॥ अथ प्रस्तारान्त्यभेदमचलधृतिवृत्तमभिधीयते द्विगुणितवसुलघुभिरचलधृतिरिति ॥ २१६ ॥ यत्र द्विगुणिता वसुलघवः षोडशापि वर्णा लघवोऽर्थाद्भवन्ति, तदचलधृतिरिति वृत्तं भवतीति लघ्वन्तेन नगणपञ्चकेनेति फलितोऽर्थः ॥ यथा'तरणिदुहितृतटरुचिरतरवसति रमरमुनिजनसुखविहितधृतिरिह । मुररिपुरभिनवजलधररुचितनु रचलधृतिरुदयति सुकृतिहृदि खलु ॥' उद्दवणिका यथा-॥, , , , , , १६४४६४ ॥ अचलधृतिनिवृत्ता ॥ अत्रापि प्रस्तारगत्या षोडशाक्षरस्य . पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदाः, तेषु कियन्तो भेदा लक्षिताः । शेषभेदास्तीक्ष्णमतिभिराकरान्निजबुद्ध्यावा प्रस्तार्य लक्षणीया इति दिक् ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy