SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८४ काव्यमाला। यथा 'दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता ___ यद्भुजपरिघत्राता याता साध्वसविगमम् । दीव्यति दिविषन्माला स्वैरं नन्दनविपिने गच्छत शरणं कृष्णं तं भीता भवरिपुतः ॥' उद्दवणिका यथा-su, us, sss, ssh, I, 5, १६x४=६४ ॥ चकिता निवृत्ता॥ अथ मदनललिताछन्दः__म्भौ नो नौ गो मदनललिता वेदैः षडतुभिः ॥ २१२॥ यत्र म्भौ मगणभगणौ । अथ च नो नगणः, ततो नौ मगणनगणौ भवतः ततश्च गो गुरुर्भवति प्रथमं चतुभिः ततः षड्भिः पुनरपि षड्भिरेव विरतिर्यत्र तन्मदनललिता छन्दः॥ यथा 'विभ्रष्टस्रग्गलितचिकुरा धौताधरपुटा ___ म्लायत्पत्रावलिकुचतटोच्छासोर्मितरला । राधात्यर्थ मदनललितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥' उद्दवणिका यथा-sss, su, m, sss,1, 5,१६x४=६४॥ मदनललिता निवृत्ता॥ अथ वाणिनी छन्दः नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ २१३ ॥ नगणजगणभगणजगणरगणैः गयुक्तैर्गुरुसहितैः पञ्चभिरेतैर्गणैर्वाणिनीछन्दः ॥ यथा 'स्फुरतु ममाननेऽद्य ननु वाणि नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ उध्वणिका यथा-n, is, su, ISI, SIS, 5, १६४४६४ ॥ वाणिनी निवृत्ता॥ अथ प्रवरललितं छन्दः यमौ नः स्रौ गश्च प्रवरललितं नाम वृत्तम् ।। २१४॥ यत्र यमौ यगणभगणौ। अथ च नगणः, ततः स्रौ सगणरगणौ भवतः, ततश्चेद्गुरुर्भवति तदा प्रवरललितं नाम वृत्तं भवति ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy