SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अथ चतुर्दशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं वासन्ती छन्दः मस्तो मो मो गौ यदि गदिता वासन्तीयम् ॥ १७९ ॥ मगणतगणनगणमगणैर्गुरुद्वयेन च वासन्तीछन्दः ॥ यथा भ्राम्यद्भुङ्गीनिर्भरमधुरालापोद्गीतैः श्रीखण्डानेरद्भुतपवनैर्मन्दान्दोला। लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥' उद्ववणिका यथा-sss, ssi, Im, sss, ss, १४४४=५६॥ . अथासंबाधाछन्दः मो गो गो नौ मः शरनवभिरसंबाधा ॥ १८० ॥ यत्र पूर्व मगणस्ततो गुरुद्वयम्, ततश्च नौ नगणद्वयम् , अनन्तरं मगणो भवति, शराः पश्च, तेन पञ्चभिर्नवभिश्च यत्र विरतिर्भवति तदसंबाधाछन्दः ॥ यथा 'वीर्याग्नौ येन ज्वलति रतिरसाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसंबाधा । धर्मस्थित्यर्थं प्रकटिततनुरभ्यर्थ्यः साधूनां बाधां प्रशमयतु कंसारिः ॥' उध्वणिका यथा-sss, ss, m,, sss, १४४४-५६ ॥ असंबाधा निवृत्ता ॥ अथापराजिता छन्द: ननरसलघुगैः स्वरैरपराजिता ॥ १८१ ॥ नगणयुगलरगणसगणलघुगुरुभिः स्वरैः सप्तभिः कृतविश्रामापराजिता ॥ यथा 'यदनवधिभुजप्रतापकृतास्पदा यदुनिचयचमूः परैरपराजिता। व्यजयत समरे समस्तरिपुत्र । स जयति जगतां गतिर्गरुडध्वजः ॥' उद्दवणिका यथा-॥,, sis, us, 15, १४४४-५६ ॥ अपराजिता निवृत्ता॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy