SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्राकृतपिङ्गलसूत्रम् । जं करअलगण पअ पअ मणिओ चक्कपअह भणु फणिवइ भणिओ || १७७ ॥ २ परिच्छेदः ] [ संभण चरणगणः पतति मुखे संस्थापय पुनरपि द्विजवरयुगलम् । यत्र करतलगणः पदे पदे ज्ञातचक्रपदं भण फणिपतिर्भणति ॥] हेमुग्धे, यत्र मुखे आदौ चरणगणो भगणो गुर्वादिगणो यत्र पतति, ततश्च संस्थापंय, पुनरपि द्विजवरयुगलं चतुर्लघुकगणद्वयम्, ततश्च यत्र करतलं सगणो गुर्वन्तगणो यत्रैवं पदे पदे प्रतिचरणं ज्ञातः, तच्चक्रपदं वृत्तमिति फणिपतिर्भणतीति त्वं संभणेति ॥ भूषणे तु प्रकारान्तरेण लक्षणं लक्षितम् — ' कुण्डलकलितनगणमिह तृ ( ? ) तयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥ आदावन्ते च गुरुद्वयम् मध्ये द्वादशलघुभिः पिण्डतो वर्णचतुर्दशात्मकः षोडशकलश्चरणो यत्रेति फलितोऽर्थः ॥ · चक्रपदमुदाहरति - जहा ( यथा ) -- खज्जणजुअलणअणवरउपमा चारुकणअलइभुअजुअसुसमा । फुल्लकमलमुहि गअवरगमणी कस्स सुकिअफल विहिगदु रमणी ॥ १७८ ॥ [खञ्जनोपमनयनयुगलवरा चारुकनकलतासुषमभुजयुगा । फुल्लकमलमुखी गजवरंगमना १६५ कस्य सुकृतफलं विधिघटिता रमणी ॥] प्राकृते पूर्वनिपातानियमात्खञ्जनोपमनयनयुगलेन वरात्युत्कृष्टा चारुकनकलतासुषमाभुजयुगा । अथ वा- - भुजयुगे चारुकनकलतायाः सुषमा यस्याः । अथ च - फुल्लकमलमुखी गजवरगमना मत्तगजराजगामिनी रमणी विधिना कस्य सुकृतफलं सृष्टा ॥ उवणिका यथा—S॥, ॥॥, ॥॥, ॥८, १४४४=५६ ॥ यथा वा[णीभूषणे ] – 'सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥' चक्रपदं निवृत्तम् ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy