SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । [चामरः प्रथमं पापगणो ध्रुवं शल्यश्चरणगणस्य स्थापय ततो युगलम् । षोडशकलाः पदे पदे ज्ञायन्ते. पिङ्गलः प्रभणति पङ्कावली."." ॥] हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः, ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गलः प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः शरगण्डकयुगलकरूपमुपाहर। नागनृपतिवरभाषितमुद्दयुति वृत्तममलमिह पङ्कावलिरिति ॥' पङ्कावलिमुदाहरति-जहा (यथा) सो जग जणमउ सो गुणमन्तउ जे कर परउअआर हसन्तउ । जो पुण परअआर विरुज्झइ तासु जणणि किं ण थकइ वञ्झइ ॥ १६६ ॥ [स जगति जातः स गुणवा न्यः करोति परोपकारं हसन् । . यः पुनः परोपकारं विरुध्यते _____ तस्य जननी किं न तिष्ठति वन्ध्या ॥] स एव जगति जातः, स एव गुणवान् , यः करोति परोपकारं हसननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति ॥ यथा वा[णीभूषणे]'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥' उद्दवणिका यथा-5, , , sh, su, १३४४ = ५२ ॥ पङ्कावली निवृत्ता ॥ अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिद्वृत्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः भवति मृगेन्द्रमुखं नजौ जरौ गः ॥ १६७ ॥ यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy