SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । 'सहशरनिधिजं तथा कार्मुकम्' इत्यादि भारवौ । 'अतिसुरभिरभाजि पुष्पश्रिया' इति माघे ॥ उध्वणिका यथा-॥ ॥, ss, SIS, १२४४ = ४८ ॥ मन्दाकिनी निवृत्ता ॥ अथ कुसुमविचित्राछन्दः नयसहितौ न्यौ कुसुमविचित्रा ॥ १५४॥ यत्र नगणयगणसहितौ न्यौ नगणयगणावेव भवतः, तत्कुसुमविचित्रानामकं वृत्तं भवतीति ॥ यथाविपिनविहारे कुसुमविचित्रा कुतुकितगोपी पिहितचरित्रा । मुररिपुमूर्तिर्मुखरितवंशा चिरमवताद्वस्तरलवतंसा ॥ उवणिका यथा-1, Iss, m, iss, १२४४ = ४८ ॥ कुसुमविचित्रा निवृत्ता॥ अथ तामरसच्छन्दः इह वद तामरसं नजजा यः ॥ १५५ ॥ हे कान्ते, यत्र नगणजगणजगणाः, अथ च यो यगणो यदि भवति, तदा तामरसाख्यं वृत्तं वद ॥ यथा स्फुटसुषमा मकरन्दमनोज्ञ व्रजललनानयनालिनिपीतम् । तव मुखतामरसं मुरशत्रो हृदयतडागविकासि ममास्तु ॥ उद्दवणिका यथा-1, Isi, Is), Iss, १२४४ = ४८ ॥ तामरसं निवृत्तम् ॥ अथ मालतीछन्दः भवति नजावथ मालती जरौ ॥ १५६॥ यत्र नजौ नगणजगणौ, अथ च-जरौ जगणरगणौ भवतः सा मालतीछन्दो भवतीति॥ यथा इह कलयाच्युत केलिकानने मधुरससौरभसारलोलुपः। कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ॥ कुत्रचिदियमेव 'यमुना' इति ॥ 'अपि विजहीहि दृढोपगृहनम्' इति भारवौ ॥ उहवणिका यथा-1, Is, SI, SIS, १२४४ = ४८ ॥ मालती निवृत्ता ॥ अथ मणिमालाछन्द: त्यौ त्यौ मणिमाला छिन्ना गुहवः ॥ १५७ ॥ यत्र प्रथमं त्यौ तगणयगणो, अथ च त्यौ तगणयगणावेव भवतः सा गुहवः षडाननाननैश्छिन्ना जातविश्रामा मणिमाला तन्नामकं वृत्तमित्यर्थः ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy