SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अथ वंशस्थविलं छन्दः वदन्ति वंशस्थविलं जतौ जरौ ॥ १५० ॥ यत्र जतौ जगणतगणौ, अथ च जरौ जगणरगणौ भवतः, तद्वंशस्थविलं वृत्तमित्या- .. चार्या वदन्ति ॥ यथा विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुद्गिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः ॥ उद्दवणिका यथा-SI, SSI, ISI, SIS, १२४४ = ४८ ॥ वंशस्थविलं निवृत्तम् ॥ अथेन्द्रवंशाछन्दः तच्चन्द्रवंशा प्रथमाक्षरे गुरौ ।। १५१ ॥ तद्वंशस्थविलमेव प्रथमाक्षरे गुरौ सतीन्द्रवंशाख्यं तगणद्वयजगणरगणाभ्यां(णैः) वृत्तं भवतीति वेदितव्यम् ॥ अथ चैतयोर्वेशस्थविलेन्द्रवंशयोरुपजातयश्चतुर्दश भवन्तीति त. द्भेदाः सुधीभिः पूर्वप्रदर्शितप्रक्रियया स्तवनीया इत्युपदिश्यते । एते चोपजातिकृतचतुर्दश भेदाः प्रकृतप्रस्तारपिण्डसंख्यातोऽधिका वेदितव्या इति ॥ इंद्रवंशा यथा 'दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतीतमोहरः । यस्मिन्नधाक्षुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ॥' उद्दवणिका यथा-ss, ss), ISI, SIS, १२४४ = ४८ ॥ इन्द्रवंशा निवृत्ता ॥ अथ वैश्वदेवीछन्दः ___ बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ॥ १२ ॥ यत्र ममौ मगणद्वयम्, अथ च यौ यगणद्वयं च, यत्र बाणाः पञ्च, अश्वाः सप्त, तैश्छिन्ना जातविश्रामा सा वैश्वदैवी तन्नामकं वृत्तं भवतीति ॥ यथाअर्चामन्येषां त्वं विहायामराणामद्वैतं नैकं कृष्णमभ्यर्च्य भक्त्या । तत्राशेषात्मन्यचिते भाविनी ते भ्रातः संपन्नाराधना वैश्वदेवी ॥ उद्दवणिका यथा-5ss, sss, Iss, Iss, १२४४ = ४८ ॥ वैश्वदेवी निवृत्ता ॥ अथ मन्दाकिनी छन्दः ननररघटिता तु मन्दाकिनी ॥ १५३ ॥ या नगणद्वयरगणद्वयघटिता सा मन्दाकिनी तन्नामकं वृत्तमित्यर्थः ॥ यथा बलिदमनविधौ बभौ संगता पदजलरुहि यस्य मन्दाकिनी । सुरनिहितसिताम्बुजस्रग्निभा हरतु जगदघं स पीताम्बरः ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy