SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५६ अलङ्कारशेखरेइदानी सादृश्यप्रापकप्रकारानाहइवाद्यैः प्रतिमानाद्यैः समानानिमादिभिः ॥. बन्धुचौरारिवंशायैः सादृश्यप्रतिपत्तयः ॥ १ ॥ इवाचैरिति । तदाहुः-- इववद्वायथाशब्दाः समाननिभसंनिभाः । तुल्यसङ्काशनीकाशपतिमाप्रतिरूपकाः ॥ सहसदृशसंवादिशब्दाः सादृश्यवाचकाः । प्रतिमानायैरिति । प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।। समानाद्यैर्निभादिभिरिति। वाच्यलिङ्गाः समानश्च सदृक्षः सदृशः सदृक् । साधारणः समस्तुल्यः स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः । बन्ध्विति । बन्धुर्मित्रं वयस्यश्च प्रेयान् प्रीतः सुहृत् सखा । उपमानोपमेययोरेवम् । चौरेति । प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । 'मुखकान्तिचौरश्चन्द्र' इत्यादि कर्तव्यम् । अरीति । रिपुवैरिसपत्नारिद्विषद्वेषणदुहृदः। द्विविपक्षाऽहिताऽमित्रदस्युशात्रवशत्रवः । अभिघातिपराऽरातिप्रत्यर्थिपरिपन्थिनः । 'चन्द्रस्य वैरि मुख'मित्यादि कर्तव्यम् । वंशाचैरिति । सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्वबायः सन्तानः सपिण्डास्तु सनाभयः ॥
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy