________________
प्रस्तावना
मितानि । तस्मादेव कालादारभ्य लक्ष्यलक्षणरूपविभागद्वयकल्पनया काव्यमलङ्कारश्चेत्युभयविधो व्यवहारः प्रववृते। - अत्र च अलङ्कारशास्त्र विविधानि दर्शनानि व्यवस्थितानि । तथा हि अलङ्कारसर्वस्वटीकायां समुद्रबन्धे–'इह विशिष्टार्थी शब्दो काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन व्यापारमुखेन व्यङ्ग्यमुखेन वेति त्रयः पक्षाः । आद्येऽप्यलङ्कारतो गुणतो वेति द्वैविध्यम्। द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैधम् । इति पञ्चसु पक्षेष्वाद्य उद्भ. टादिभिरङ्गीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवितकारेण, चतुर्थो भट्टनायकेन, पश्चम आनन्दवर्धनेन । व्यक्तिविवेककाराभिमत स्त्वनुमानपक्षः सिद्धान्तप्रदर्शनसमनन्तरं विचारासहत्वेन दूषितत्वात् मख़ुकस्य पूर्वपक्षत्वेनाऽप्यनभिमतः' इति । एतस्मिन्पक्षपश्चके ध्वनिकृताऽऽनन्दवर्धनाचार्यणाद्रियमाणश्चरमः पक्ष एव बहुशः सर्वैरङ्गीक्रियते। विचार्यमाणे सत्युचितमेतदेव प्रतीयते। अत्र बहुवक्तव्येऽपि विषये विस्तरभिया साम्प्रतं मौनमेवावलम्ब्यते। ____ 'अलङ्कारशास्त्रं हि पूर्व केनाऽऽविष्कृतम्' इत्यत्र यथावन्निर्णयस्तावत्कतुं दुःशक एव । तथापि प्रसिद्धेषु अलङ्कारग्रन्थेषु कालि दासकृतेरुदाहृतत्वात् कालिदासादुत्तरस्मिन्नेव काले तस्य विशेषतो व्यवहारयोग्यता जातेति कल्पयान्त केचित् । किन्तु नाट्यशास्त्रदर्श नेन कालिदासात्पूर्वकालेऽप्यस्य सत्ता आसीदिति निर्विवाद सिध्यति । नाट्यशास्त्रे हि अलङ्कारादिवर्णनं सर्वमप्युपलभ्यते । अद्यावधि उपलब्धेवलङ्कारनिबन्धेषु भामहस्यैव काव्यालङ्कारः शास्त्रीयग्रन्थे. षु साम्प्रतं प्रथमाभिधेयतामधिगच्छति । भामहीयकाव्यालङ्कारस्य प्राचीनतमत्वेन तस्मात्पूर्वभाविनोऽलङ्कारग्रन्थस्येदानीमनुपलभ्मात् प्रायो भामहोपजीवितमलङ्कारशास्त्रमिति वक्तुं युक्तमेव ।
ग्रन्थपरिचयः । अयं च अलङ्कारशास्त्रीयः प्रबन्धः शौद्धोदनिकृतालङ्कारसूत्रव्या. ख्यानरूपः 'अलङ्कारशेखरो' नाम केशवमिश्रेण माणिक्यचन्द्रप्रेरितेन विरचितः । अत्र च काव्यस्वरूपरीतिदोषगुणालङ्कारादिकं नातिसंक्षि. प्तं नातिविस्तृतं समुचितरूपेण सरलया भाषया वर्गितं वृत्तिकारेण ।
इदानीं प्रकरणविभागनिर्देशपुरःसरं तत्रत्या विषया निरूप्यन्ते । विषयानुक्रमणिकायां विस्तरेण विषयविवेचने विद्यमानेऽपि स्थूलदू.