________________
तृतीपरत्ने तृतीयमरीचिः ।
५
यथा..... पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !।
विलसत्करेणुगहनं सम्पति सममावयोः सदनम् ॥ न व्यर्थ यमकादिषु ॥ २॥
यथादधत्युरोजद्वयमुवेशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाऽमतिमेन काचन श्रियाऽधिका यां प्रति मेनका च न ।
अत्र चकार: (१)। नाऽश्लील भगवत्यादी तदाहु:-- भगिनीभगवत्यादौ शिवलिङ्गगुहादिषु ।
अभिप्रेतकुमार्यादौ स्वश्लीलं नैव दुष्यति ।। अश्लीलत्रयमत्रोक्तमिति ध्येयम् । दण्डी तु.... निष्ठयूतोद्गीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥ तद्विदे(२) नाऽप्रतीतकम् ॥ यथा
सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपश्चकम् । सौगताचामिवात्माऽन्यो नास्ति मन्त्री महीभृताम् ॥ सहायाः साधनोपाया देशकालौ बलाबलौ । विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र उच्यते ॥ रूपं संज्ञाथ संस्कारो वेदनानुभवस्तथा ।
इति बौद्धाः शरीरेषु मन्यन्ते स्कन्धपश्चकम् । इति भार्गवसर्वखे । नाऽसाध्वनुकृतौ (१)चमत्कार:- इति क,खपु० पाठः।। (२) तद्विद्य-इति गपुस्तके पाठः।