SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशेखरे - शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ नवशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥ अत्र 'शुभ्रे पल्लविनी 'त्यादिविशेषणानां श्लाध्यता । झटित्यर्थ २२ प्रत्यायकत्वम् - प्रसादत्वम् । यथा स विश्वजितमारेभे यज्ञं सर्वस्वदक्षिणम् । आदानं हि त्रिसर्गाय सतां वारिमुचामिव ॥ कौशलादर्थविशेष लाभः- उक्तिः । यथाकुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ।। अत्र कुशलम कुशलं वेत्युत्तरे कर्तव्ये 'जीवती'त्युक्तिविशेषाज्जीवितमात्रशेषता (१) लभ्यते । अन्यधर्माणामन्यत्राऽऽरोपणम्समाधिः । यथा - - Calcula नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुच परिकरः पूर्वपक्षीचकार । विभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी द्वक्त्रज्योत्स्ना सितकररुचं (२) दूषयामास तस्याः ॥ अत्र पत्रदानादि (३) चेतनधर्माणामारोपणमिति । इत्यलङ्कारशेखरे गुणरत्ने शब्दगुणमरीचिः । - · अथाऽर्थगुणानाह भाविकत्वं सुशब्दत्वं पर्यायोक्तिः सुधर्मिता ॥ चत्वारोऽर्थगुणाः प्रोक्ताः परे स्वत्रैव सङ्गताः ॥१॥ ( १ ) जीवितमात्रं लभ्यते - इति क, खपु० पाठः । ( २ ) शशधररुचि - सद्यः - इति गपु० पाठः । (३) पत-पदानां - इति क, खपुस्तकयोरधिकः पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy