________________
२० . अलङ्कारशेखरे
अत्र स्फुटमसादृश्यम् । देशादिविरोधि-यत्र देशकालवयो. ऽवस्थादिविरोधः प्रतीयते । यथा-- प्रवेशे चैत्रस्य स्फुटकुटजराजिस्मितदिशि
प्रचण्डे मार्तण्डे हिमकरसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं
मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः ॥ अत्र 'प्रवेशे चैत्रस्य स्फुटकुटजेति कालस्य, 'मरुसरसी'ति देशस्य, 'मदेनान्ध मिति वयसः, 'प्रशमिन' इत्यवस्थायाविरोधः । इदं च तत्तच्छास्त्रतत्तत्प्रमाणतत्तल्लोकादिभेदादनन्तम् । यत्र तु लोकस्य कवेश्च प्रसिद्धयोर्विरोधः, तत्र कविप्रसिद्धिरेव बलीयसीति । यथा-- सुसितवसनालङ्कारायां कदाचन कौमुदी
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताऽऽशङ्का क नासि शुभप्रदः ॥
अत्र कीर्तज्योत्स्नावत्प्रकाशकता लोकविरुद्धापि कविस. मयसिद्धत्यदोषः।
ननु कथममीषां दोषता, आकाङ्क्षादिज्ञानासत्त्वे शाब्दज्ञाना(१). विलम्बादिति चोना वाक्यान्तरापेक्षया काव्ये सामग्रीलक्षण्यात्। अन्यथा प्रतीतिलक्षण्यानुपपत्तेः। तथाचाऽन्वयबोधानुकूलाकाङ्का. सम्वेऽपि रसोत्पत्यनुकूलाकाङ्क्षादिविरहो दोष इति ध्येयम् ।
सम्प्रदायानुरोधेन व्याख्येयं मम वस्तुतः(२) । तारकाव्यं प्रकुर्वीत यत्रोद्वेगो न धीमताम् ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
दोषरत्नेऽर्थदोषमरीचिः। (१) मानविलम्बानुपपत्तेः-इति गपु० पाठः । (२) तत्त्वत:--इति गपु० पाठः।
-