________________
प्रथमरने तृतीयमरीचिः।
तच्च गुणीभूतं, तदपेक्षया वाच्यस्यैव चमत्कारित्वात् । चमत्क. तिहेतुव्यङ्गयरहितत्वमधमत्वम् । यथा---
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ अत्र व्यङ्गयः कोऽप्यर्थस्ताहशो नास्ति । अत्र सर्वत्र(१) वक्तुरेव तात्पर्य नियामकम् । सज्ज्ञानमेव बोधोपयोगि । तदभावादधममित्युच्यते । अपश्चितं चेदं मयैव काव्य(२)रत्ने । ननु व्यञ्जना वृत्यन्तरमित्यत्र किं मानमिति, उच्यतेभद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेः कृतशिलीमुख सङ्घहस्य । यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ अत्र प्रकरणेन 'भद्रात्मन' इत्यादिपदानां राज्ञि तदन्वययोग्य चार्थेऽभिधानियन्त्रणेऽपि गजस्य तदन्वययोग्यस्य चार्थस्य व्यजनयैव प्रतीतिः । वस्तुतस्तु
अद्यारभ्य चिरं साधो ! निःशङ्कमिह सचर । रेवाकुञ्जे मृगेन्द्रेण स दुष्ट(३)श्वाध घातितः ।। अत्र भिक्षुकं प्रत्येवं वदन्त्याः प्रतिवेशिनं प्रति निशाङ्क रत्यभिधानं स्फुटमिति । किंच रेवाकुञ्जस्य रतस्थानत्वं लभ्यते । सिंहबुद्धया परेण न गन्तव्यम् । सिंहस्तु वस्तुगत्या नास्त्येव । तदेतव्यानां विना प्रकारान्तरेण लब्धव्यमित्याशळेच नास्तीति(४)। ... इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे।
उपक्रमरत्ने वृत्तिमरीचिः । (१) एतदने-व्यञ्जनासु-इत्यधिकः पाठः ख, गपुस्तकयोः।। (२) वाक्यरत्ने-इति क,खपु. पाठः। (३) दुष्टश्चाद्य-इति क, खपु० पाठः । (४) नास्तीत्याहुः श्रीपादा:--इति गपुस्तकेऽधिकम् ।