________________
१०
अलङ्कार शेखरे
1
मुद्रा | वचनमुद्रा यथा
विश्वंभरा भगवती भवतमिस्रुत
द्वचनमुद्रा |
-
राजा प्रजापतिसमो जनकः पिता ते ।
तेषां बंधूत्वमसि नन्दिनि । पार्थिवानां येषां गृहेषु सविता च गुरुवयं च ॥ : अत्र 'वर्ग' मिति बहुवचनेन सवितुरप्यहं महानिसभिप्राया
प्रयोजनं यथैतासां रसमैत्री च विस्तरः । तथाऽलङ्कार सर्वस्वे समपञ्चमदर्शयम् ॥ इत्यलङ्कारशेखरे उपक्रमरत्नं रीत्यादिबहिरङ्गत्रय मरीचिः ।
अथ वृत्तिं विभजतेपदानां वृत्तयस्तिस्रः
तिस्रो वृत्तयः पदानां भवन्ति । शक्तिर्लक्षणा व्यञ्जना चेति । तत्र शक्तिरीश्वरेच्छा, या सङ्केत इत्युच्यते । सा पदेषु प्रसिद्धैव । सा च
-
कोशव्याकरणाप्तोक्तिवाक्यशेषोपमादितः । प्रसिद्धपदसम्बन्धाद्व्यवहाराच्च बुध्यते ॥
लक्षणा शक्यसम्बन्धः । सा च तात्पर्यानुपपश्या मुख्यार्थानुपपच्या वा प्रवर्तते । यथा 'निर्माल्यं नयनश्रिय' इत्यादौ 'निर्माल्यदासा 'दिपदे | तृतीया वृत्तिर्व्यञ्जना । यथा-निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनअने पुलकिता तन्वी तवेयं तनुः । - मिध्यावादिनि ! वृत्ति ! बान्धवजनस्याज्ञातपीडागमे ! वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥