SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमरने द्वितीयमरीचिः । तत्र ( १ ) रीतिमाह - तत्तद्रसोपकारिण्यस्तत्तद्देशसमुद्भवाः ॥ २ ॥ पद्येषु रीतयो गौडी वैदर्भी मागधी तथा ॥ तदेतत्पल्लवयन्ति श्रीपादा:-- गौडी समास भूयस्त्वाद्वैदर्भी च तदल्पतः । अनयोः सङ्करो यस्तु मागधी साऽतिविस्तरा ॥ गौडीयैः प्रथमा मध्या वैदर्भ मैथिलैस्तथा । अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ॥ तत्र गौडी यथा -- उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रीडस्को किलकाकली कलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ の वैदर्भी यथा मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से ! कच तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ! मागधी यथा- पाणौ पद्मधिया मधूककुसुमभ्रान्त्या पुनर्गण्डयोनीलेन्दीवरशङ्कया नयनयोर्बन्धूक बुद्ध्याऽधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः क्रियन्ति तरुणि ! स्थानानि रक्षिष्यसि (२) । इयं बहुप्रकारेति (३) विस्तृतमन्यत्र । ( १ ) तत्र रीतिमाह - इति कपुस्तके नास्ति । ( २ ) संरक्षसि - इति गपु० पाठः । ( ३ ) इयं च बहुधा - इति कपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy