SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अलकारशेखरे— नास्तीति हृदयम् । उद्दामा इति । छन्दः दण्डकहंसग्धिरादि । रीतिगौंडी | अक्षरेषु श्रीपाद: 1 ९०. उद्दामाः सान्तरालेन (१) सजातीयेतरेण च । योगाष्टाद्याश्च (२) चत्वारः शषौ ( ३ ) विकटगुम्फना ॥ हृद्या इति । उपेन्द्रादिच्छन्दः । इह रीतिर्वैदर्भी । अक्षरेषु पुनः स एव ( ४ ) - रणौ (५) च लघ्वन्तरितौ नोपर्यनुनासिकः । असमासोऽथ सोऽल्पो वा हृद्यं स्यात्सन्धिसौख्य (६) वत् ॥ यथा - अनङ्गरङ्गप्रतिमं यदङ्गं भङ्गीभिरङ्गीकृतमानतायाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्ताऽपरचिन्तनानि ॥ अत्र वैपरीत्यं दोषायेति मनसि कृत्वा कचिददोषतामाहवक्तृवाच्यप्रबन्धानामौचित्येन कचित्कचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ २ ॥ यथा-- : मन्यायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वान धीरः कोणाघातेषु गर्जत्मलयघन घटान्योन्यसंघट्टचण्डः | कृष्णाक्रोधाग्रदूतः कुरुशतनिघनास्पातनिर्घातवातः केनाऽस्मत्सिंहनादप्रतिरसित सखो दुन्दुभिस्ताडितोऽयम् ॥ ! (१) स्वान्तरालेन - इति कपु० पाठः । (२) योगाद्याश्चैव - इति कपु० पाठः । (३) शेषा - इति कपुस्तके | (४) पुनस्तु एवं - इति कपु० पाठः । ( ५ ) नसौ - इति कपु०, ईशौ - इति घपु० पाठः । ( ६ ) सौष्ठवम् - इति पु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy