SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८६ अलङ्कारशेखरे - सव्रीडा नयननिपातनात् । अत्र व्रीडादीनां स्वस्वभावमतिपादितानां चमत्कारजनकत्वस्य सहृदयसाक्षिकतया तदभावादेव रसभङ्ग इत्युचितम् । एतदेव प्रत्युदाहरणेन प्रतिपादयन्ति - ध्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मलिः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे इत्यादि । स्थायिनो यथा संप्रहारे प्रहरणैः महाराणां ( १ ) परस्परम् । उणत्कारैः (२) श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ संप्रहारः संग्रामः । अत्रोत्साहस्य | रसस्थ रसशब्दप्रतिपादि - तस्य रसाऽजनकत्वम् । यथा- तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूलशोभिनीम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसां निरन्तरः ।। शृङ्गारादिपदप्रतिपादितस्य यथाआलोक्य कोमलकपोलवलाभिषिक्तव्यक्तानुरामसुभगामभिराममूर्तिम | पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ अनुभावस्य कष्टमकल्पनीयत्वं यथाकर्पूरधूलिधवलद्युतिपूरधौत दिखण्डले शिशिररोचिषि तस्य यूनः । कीला शिरोंऽशुक निवेश विशेषक्लृप्तिव्यक्तस्तनोन्नतिर भून्नयनानौ सा ॥ ( १ ) स्वहाराणां - इतिकपु० पाठः । (२) पुस्तकयेऽपि झणत्कारै:- इति पाठः । स चाऽसङ्गत इव प्रतिभाति ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy