SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशेखरे तन्त्र नेत्रविकारः (१)स्यात्पुलका स्वेद एव च॥ निस्पन्दनेत्रता साधुसाधुवादास्तथा(२) मताः ॥ २७॥ यथाचित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम् । तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि ॥ सम्यगज्ञानसमुत्थानः शान्तो निस्पृहनायकः ॥ रागद्वेषपरित्यागे सम्यग्ज्ञानस्य चौद्रयः॥ २८ ॥ पश्चात्तापः शरीरादियावस्तुविडम्बनम् ॥ ..., विवेकचित्तस्थैर्यादियोगाद्यास्तस्य लक्षणम् ॥ २९ ॥ यथाअहो वा हार वा कुसुमशयने वा दृषदि वा . मणौ वा लोष्ठे वा बलवति रिपो वा मुहृदि वा । तृणे वा स्टेणे वा मम समहशो यान्तु दिवसाः . कचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ स्टेणं स्त्रीसमूहः । अत्राऽहिरिव हारो हेयो नतु हारवदहिरप्युपादेय इति बोद्धव्यम् । अत्र सर्वत्र तत्तद्रसमात्रे(३) उदाहरणमिति स्मर्तव्यम् । इदानीं रसानामविरोधविरोधावाहशृङ्गारहास्यौ करुणबीभत्सौ वीररौद्रको ॥ भयानकाऽभुतौ मित्रे मिथः शान्तो न कस्यचित् ३० शान्ते करुणवीभत्सी न किंचिवष्टि चाऽद्भुतः ॥ शृङ्गारे शान्तकरुणौ हास्यस्य करुणो रिपुः ॥ ३१ ॥ (१) नेत्रविकासः-इति घपुस्तके। (२) तथा च गी:-इति स्ख,घपु० पाठः। . (३) तत्तद्रसत्वमा-इति क,खपुस्तकयोः पाठः ।.....
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy