________________
अष्टमरत्ने प्रथममरीचिः ।
स्तृतं मयैव काव्यरत्ने (१) । श्रीपादस्तु -- रतिर्भवति देवादौ मुनौ पुत्रे नृपे गुरौ । 1. शृङ्गारस्तु भवेत् सैव या कान्ताविषया रतिः ॥ तत्र देवे यथा
कण्ठकोण विनिविष्टमीश ! ते कालकूटमपि महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ मुनौ यथा
हरत्यधं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ पुत्रे यथा
एह्येहि वत्स ! रघुनन्दन ! पूर्णचन्द्र !
चुम्बामि मूर्ध्नि सुचिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥
नृपे यथा
ते कौपीनधास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनित्रहास्तैरेव लब्धा क्षितिः (२) ॥ तैरेतत्समलंकृतं निजकुलं किंवा बहु ब्रमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥
गुरौ यथा
-
७९
हा तात ! विश्वजनवत्सल ! मामकीनजीवोषध ! सुमणिवंशवतंसभूत ! | स्यां चेद्भवत्कुलजसद्मनि चेटकः स्यां यद्रा भवच्चरणपङ्कजरेणुरेव ||
( १ ) वाक्यरत्न - इति कपुस्तके |
(२) स्थितिः - इति खपुस्तकस्थः पाठ एकार्थकत्वादनुपयुक्तः ।