________________
86
अलंकारमणिहार
अत्र परंपरितरूपकोपमाकैतवापगुतोनामितरेतरानेरपेक्षाणा. मर्थालंकाराणां संसृष्टिः॥
तृतीया यथा
पन्नगनगपावनवनराजीराजी तमालसालश्रीः। पापातुरमात मां पापातु रमात्तमानसस्स पुमान्॥
पन्नगनगस्य पावनानि यानि वनानि तेषां राज्यां श्रेण्यां राजत इति तथोक्तः। तमालसालस्य श्रीरिव श्रीः यस्य स तथो. क्तः । रमया श्रिया आत्तं वशीकृतं मानसं यस्य स तथोक्तः स पुमान् परमपुरुषः पापैः आतुरं मां पापातु भृशं पातु । यङ्लुक् । अत्र छेकानुप्रासवृत्त्यनुप्रासयमकानां शब्दालंकाराणां उपमापर्यायोक्तयोरर्थालंकारयोश्च संसृष्टिः ॥
यथावा
शरणं तमेव रमया भजामहे हेमजाभयाssश्लिष्टम् । त्वां विपदि महत्यामपि वदेम वा वामदेव शरणमिति ॥ २१३५ ॥
हेमजा स्वर्णजन्या आभा प्रभा यस्यास्तथोक्तया हिरण्यवर्णयेत्यर्थः। रमया आश्लिष्टं तमेव श्रीमन्तं नारायणमेव शरणं भजामहे प्रपद्यामहे । हे वामदेव विरूपाक्ष! त्वां महत्यां विपद्यपि शरणमिति वदेम वा । न वदेमैवेत्यर्थः । शरणमित्युक्तेरपि संभावना न कार्या। किमुत शरणवरणकथति भावः 'महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरि.' इत्युक्तरीत्या तं श्रिय-पतिमेव भजामो न तु भवन्तंप्रति रक्षेति वचनमपि वा वदामः । 'नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः' इत्यम्बराषव्रतनिष्णाता वयामिति भावः । रमयाऽऽश्लिष्टमित्यनेन भग