SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ संसृष्टिसर: (१२०) 85 चेत् अत्र केचित्-नालंकारान्तरं युक्तमभ्युपगन्तुं, प्रातिस्वि कतत्तदलंकारतातिरेकेण संज्ञान्तरस्य विच्छित्तिविशेषस्य चाभावादित्याहुः । अन्ये तु-नरसिंहन्यायेनालंकारान्तरमेव । न च संज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धः। संसृष्टिसंकरसंज्ञयोलौकिकालंकाराणां कनकमुक्तााप्रवाळहरिनीलमरकतादीनामन्योन्यविलक्षणशोभाधायकानां मेळनकृतशोभातिशयवदिहापि मेळने विच्छित्तिविशेषसद्भावस्य च सहृदयहृदयैकसाक्षिकत्वात् । अतो नरसिंहाकारेण मेळनमलंकारान्तरमेवेति । तदेतन्मतमवलम्ब्योक्तं 'भात्यलंकारता पृथक्' इति ॥ तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम् । संसृज्येरनलंकारास्सा संसृष्टिरितीर्यते ॥ तिलतण्डुलन्यायोन स्फुटावगम्यभेदालंकारमेळने संसृष्टिरित्यर्थः ॥ शब्दालंकारयोरालंकृत्योश्च परस्परम् । उभयोरपि संसृष्टिरिति सा त्रिविधा मता ।। तत्राद्या यथाकलिकलुषशबलितमतिक्षितिपतिसेवातिवाहितायुरहम् । अधुना तव मधुनाशन विधुनानि क्लमभरं चरितमधुना ॥ २१३२ ॥ अत्र शब्दालंकारयोर्वक्ष्यमाणयोरनुप्रासयमकयोः पूर्वोत्तरार्धगतयोरन्योन्यनिरेपक्षयोस्संसृष्टिः॥ द्वितीया यथावृषभूमिभृढतंसेन्दीवरमिन्दीवराप्तजैत्रमुखम् । श्रीवासनामधेयं तजगतां भागधेयमव्यानः ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy