SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ऐतिसर : (११९) सकृत् स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्वितम् । पापराशि दहत्याशु तूलराशिमिवानलः ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥ हरिर्हरति पापानि दुष्टचित्तैरापि स्मृतः । 8883 यदृच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥ इत्याद्युक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरपरतीराप्तौ संभवन्त्यां तवाप्येषा भवितेति संभवप्रमाणप्रदर्शनम् । परतारेत्यत्र 'दिक्छ्ब्देभ्यस्तीरस्य तास्भावो वा वाच्यः' इति तीरशब्दस्य तारादेशः ॥ इत्यलंकारमणिहारे संभवसरोऽष्टादशोत्तरशततम. अथैतिह्यसरः (११९) : यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । पारं पर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥ अनिर्दिष्टप्रवक्तृकं इतिहोचुरित्यादिप्रवाद पारंपर्यमैतिह्यम् ॥ यथा सस्यदशायामनमं शाखी भूत्वा नमेतरुः किमिति । लौकिकगाधां स्मरता बुद्धिमताऽऽबात्यतो हरिस्सेव्यः ॥ २१३० ॥ अत्र सस्यदशायामित्यादिलौकिकगाधां स्मरता बुद्धिमता 'कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह' इत्युक्तरीत्या आ बाल्यादेव हरिस्सेवनीय इत्यर्थः । अत्र लौकिकगाधामित्यनेनानिर्दिष्टप्रवक्तृकप्रवाद पारंपर्यरूपता दर्शिता ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy