SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ शब्दप्रमाणसरः (११९) 31 रूपणं परिकल्पितम् । द्वितीये तु प्रस्तरकार्यकरत्वेन रूपितस्य यजमाने प्रस्तरत्वस्य पाषाणरूपार्थान्तरकल्पनं वेदितव्यम् ॥ यथावा मा भूवं प्रत्यक्षस्तव देव परोक्ष एव भूयासम् । तर्हि प्रियो भवेयं श्रुतिः परोक्षप्रियान् वदति देवान् ॥२०४९॥ अत्र-'इदिन्द्र सन्तमिन्द्र इत्याचक्षते परोक्षण। परोक्षप्रिया हि वै देवाः' इति परोक्षनामग्रहणे देवानां प्रीतिं प्र. तिपादयित्री श्रुतिः स्वस्य परोक्षताहेतुकप्रियत्वाशंसनरूपायें प्रमाणभावं गमिता ॥ यथावावेंकटगिरिमात्रपतिं त्वा कथयन्तो जनाः परं मुग्धाः । विष्णुहि पर्वतानामधिपतिरिति गौर्जरत्यपि प्राह ॥२०५० ॥ जरती गौरपि जीर्णः कश्चित् पशुरपि विष्णुः पर्वतानां सर्वेषामधीश्वर इति वदति । वस्तुतस्तु जरती गौः 'विष्णुः पर्वतानामधिपतिस्स माऽवतु' इति श्रुतिरित्यर्थः । हिशब्दः प्रसिद्धौ, अत्र पूर्वार्धोक्तस्वाभिमतभगवतो वेंकटगिरिमात्रमतित्वं वदतां जनानां मुग्धत्वोपपादनेऽर्थे उदाहृतश्रुतिरुपोदलकतया प्रमाणतामनायि ॥ यथावाजानासि नैव दीनानस्मान् कस्मादितीह वि
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy