SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 30 अलंकारमणिहारे यथावा यद्ब्रह्म वृषगिरिगतं तज्जगतां सुकृतमेव जानेऽहम्। तत्सुकृतमुच्यत इति श्रुतिराहैतद्वि तैत्तिरीयाणाम् ॥ २०४६॥ __ अत्र 'तदात्मान स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यते' इति स्वात्मन एवोपादानतया स्वीकारेण सुष्टु सृज्यप्रपञ्चकरणरूपप्रवृत्तिनिमित्तेन सुकृतशब्दवाच्यतां ब्रह्मणः प्रतिपादयन्ती तैत्तिरीयश्रुतिः भगवति स्वाभिमतजगत्सुकृतरूपलक्षणे अर्थे प्रमाणतां नीता॥ यथावा सर्वान्तरात्मनि त्वयि योऽन्यं यजते फणाभदचलमणे । यजमानः पशुरिति या तां श्रुतिमेतत्परां विजानीमः ॥२०४७॥ यथावा यजते यस्त्वामविदन्यदुनन्दन सर्वयज्ञभोक्तारम् । यजमानः प्रस्तर इति या श्रुतिरेषा हि तत्परा मन्ये ॥ २०४८॥ सर्वान्तरात्ममि त्वयीत्यनादराधिक्ये भावलक्षणसप्तमी । प्रस्तरो दर्भमुष्टिः पाषाणश्च । सर्वयक्षभोक्तारं 'अहं हि स. यक्षामां भोक्ता च प्रभुरेव च' इति गानादिति भावः । अत एव यदुनन्दनति साभिप्रायं संबोधनम् । अत्राद्ये पद्ये श्रुत्या अन्यार्थतया रूपितस्य यजमाने पशुत्वस्य अक्षत्वेन हेतुना
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy