SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 304 अलङ्कारमणिहारे (५५) परिसंख्या एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत् प्राहुरलंकाराध्वयायिनः ॥ (५६) विकल्पः विकल्पः पाक्षिकप्रातिर्वर्ण्यते चेद्विरुद्धयोः । (५७) समुच्चयः यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः । (५८) कारकदीपकम् ऋमिकाणां क्रियाणां चेदेककारकगामिनाम् । गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥ (५९) समाधिः कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् । सौकर्य वर्ण्यते यत्र समाधिस्तत्र गीयते ॥ (६०) प्रत्यनीकम् बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः । तत्प्रतिद्वन्द्विसायं वा प्रत्यनीक मितीर्यते ॥ (६१) काव्यार्थापत्तिः दण्डापूपिकया यत्रार्थान्तर पतनं भवेत् । काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥ अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् । आपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy