SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 274 अलङ्कारमणिहारे · · उद्धारस्तु E ध/दव/सां रि त पा हाद/त/वम्। मार व रेच च तं व प रिलि भYA म शौ नु र लि भ तो तो के त यम् । यथावा मनसिजसमानरूपे हृदयं लगतादशेषजगतीशे। महसि लसमानचापे सदये लघु तादृशेऽरिजयतीव्र ॥ २३७४ ॥ अरिजयविषये तीव्र तीक्ष्णे मनसिजसमानरूपे आनयतीत्यानं जगदुज्जीवयित रूपं मनसिजसमं आनरूपं यस्य तस्मिनिति विग्रहः । यद्वा मान्यत इति मानं 'अकर्तरि च कारके' इति कर्मणि घञ् तादृशं च तत् रूपं च तेन सह वर्तत इति समानरूपं । मनसिज इव समानरूपामति विग्रहः तस्मिन् कन्दर्पतुल्यमाननीयरूप इत्यर्थः । न तु समान रूपं यस्येति विग्रहः । तथा सति । ज्योतिर्जनपद' इत्यादिना समानशब्दस्य सभावापत्तेः । यद्वा समानशब्दात्प्रशंसायां रूपप्प्रत्ययः प्रशस्तं समानं समानरूपमिति विग्रहः । मनसिजस्य प्रशस्ते समाने इत्यर्थः । तत्तुल्यसौन्दर्ये इति भावः । लसमानं लसनशीलं चापं यस्य तस्मिन् । लसतेश्चानश । ‘लसमाननवांशुकः' इति माघः । लघु क्षिप्रं हृदयं लगतादिति योजना । इदमपि पद्यं अयुग्माक्षरश्लिष्टगोमूत्रिकारूपम् ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy