SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 260 अलङ्कारमाणहारे उग्रः यः अरिः वैरी हिरण्यकशिपुः तस्य दुर्दरः दरीतुं दल. यितुमशक्यः यः उदरदरः जठरश्वभ्रं 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । तस्य दारः दारणमेव दुरोदरः द्यूतं पणो वा तस्मिन् आदरो यस्य सः तस्मिन् अदर: निर्भय इति वा । यद्वा रौद्रारिदुर्दरोदरदरदारे दुरोदरः द्यूतकारः साहासिक इति यावत् । तस्य संबुद्धिः । 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः'। उरः वक्षः अररं कवाटमिव उरोऽररं तस्मिन् उदारा: 'श्रियं लोके देवजुष्टामुदाराम्' इति श्रुत्युक्तौदार्या: दाराः यस्य तस्य संबुद्धिः । कवाटविस्तीर्णवक्षस्थलविहरमाणश्रीक इत्यर्थः । दुष्टाः अरयः शात्रवाः तेषां दरं भयं दत्त इति दुरारिददौ अरि. दरौ चक्रशङ्खौ ययोः तथोक्तौ दोषौ बाहू यस्य तस्य संबुद्धिः 'भुजबाहू प्रवेष्टो दोः' इत्यमरः। हे शङ्खचक्रधर! भगवन्नित्यर्थः । दारिद्री दारियं ब्राह्मणादेराकृतिगणत्वात् ष्यषि षित्त्वात् 'षिद्गौरादिभ्यः' इति ङीष् । अदारि। श्रीनिवासं त्वामाश्रयतो मम भक्तिविरक्तिज्ञानसंपदादिसर्वविधदुर्विधत्वं विदीर्णमिति भावः । अदारि स्वयमेव व्यदीर्यतेति वा । दृणातेर्विदारणार्थकाकमणि कर्मकर्तरि वा लुङि चिण् ॥ यथावा गगनगनगानुगानां गानानुगनाग गोऽननानागः। नानानगनागानननागनगेनानिनो नु नो ननु गाः ॥ २३५८ ॥ गगनगनग अनुगानां गानानुगनाग गोऽनन अनागः नानानगनागानननागनगेन आनिन: नु नः ननु गाः इति छेदः । अनुगानां अनुचराणां आश्रितानामित्यर्थः । गगनगनग कल्पशाखिन्
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy