SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 250 अलङ्कारमणिहारे यथावा कनकनगकटकतटकनदगगहनग गगनसदनसततनत । जगदनघजयद घनदय जय गजदरदहनजलद नरकहर ।। २३४१ ॥ कनकनगस्य वृषाद्रेः कटकस्थ तटे कनतां लसतां अगानां तरूणां गहनं कानन गच्छतीति गहनगः तस्य संबुद्धिः गगनसदनैः दिविषद्भिः सततनत । जगतां अनघं दुःखासंभिन्नं जयं ददातीति जगदनघजयदः तस्य संबुद्धिः। गजदरदहनजलद गजस्य दरः भयमेव दहन : पाषकः तस्य जलद । नरकहर नरकारे जय उत्कर्ष प्राप्नहि । अत्रापि कण्ठ्यतालव्यमूर्धन्यवर्णा एव ग्रथिताः । इदं निरोष्ठयमेकस्वरं सर्वलघु चेति विच्छित्तिविशेषः पूर्वस्मात् ॥ शेषाचलभूषा शुभवेषा भाषापतिस्तुतिसतोषा। योषाहृदयविभूषा शेषाशेषाऽऽदिदेवता सैषा ॥ योषा लक्ष्मीः हृदयविभूषा यस्यास्सा सैषा आदिदेवता। शेषाः शेषभूताः अशेषाः सर्वे यस्यास्सा । अत्र श्रीनिवासमुद्दिश्य अशेषशेषित्वं विधीयते । इदं निर्नासिक्यवर्ण चित्रम् ॥ ____एवं चतुस्स्थानवर्णनियमो दर्शितः । अथ त्रिस्थानवर्णनियम उदाहियते यथा-- कान्त्यानन्त्यात्कान्ता शान्त्या चात्यन्तया दयाजलधिः। कनकनगनाथदयिता कनति कनकाश्चिकाञ्चिता जगति ॥ २३४३ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy