SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 249 भयभरहरणं भवात् भवः उत्पन्नः यो भयभरः तस्य हरणं हर्तृ किमपि वैभवमेव वैभवत्वेनाध्यवसितं परं ब्रह्मैव अयि गीः हे वाणि! परिचर तद्गुणानेवानुवर्णयेत्यर्थः। अत्र कण्ठ्यतालव्यमूर्धन्यौष्ठयवर्णैरेव निबन्धः। इदमेव निर्दन्त्यचित्रम् । अत्र केवल. दन्त्यस्यैव निषेधः, तेन दन्तोष्ठस्थानकवकारसद्भावेऽप्यदोष इति ध्येयम् ॥ यथावा फणिशेखरशिखरिशिखामरगणपरिबृढमणीशमञ्जुरुचिम् । रमणीरमणीयोरशारणं शरणं कमप्यये शरणम् ॥ २३३९ ॥ शरणं रक्षितारं रमणीरमणीयं उरश्शरण हृदयगृहं यस्य तं कमपि पुमांसं शरणमये उपायत्वे स्वीकरोमीत्यर्थः ॥ उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते सांप्रतं चैष उपायार्थंकवाचकः ॥ इत्यहिर्बुध्नयसंहितोक्तः । इदं सर्वधा निर्दन्त्यम् ॥ ममैव प्रपन्नानन्दस्तुती जगदीशहदयनिलया जगताअननी जनार्तिहरणचणा । जलजदलायतनयना जलनिधितनया जयान्कलयतान्नः ॥ २३४० ॥ अत्र कण्ठ्यतालव्यमूर्धन्यदन्त्यवर्णानामेव निबन्धः । इदमेव निरोष्ठयमित्युच्यते । अत्र अकार आकार इकार ईकार ऋकारश्चे. त्येते पञ्चैव स्वरा निबद्धा इति विच्छित्तिविशेषः ॥ ALANKARA IV. 19
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy