SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे देशिकानां आचार्याणां वीक्षणात् कटाक्षात् आत्तं शर्म सुखं येन तं मा मां श्रीः देवी जुषतां सेवतां । अत्र 'श्रीर्मा देवी जुषताम्' इति श्रुतिवाक्यमेव तृतीयपादत्वेनापात्तं तदेव पादान्तरेषु गोपितमिति गूढतृतीयमिदम् ॥ गूढ चतुर्थे यथाकाकोदराचलौका लोकाभीष्टार्थदिविजभूमिरुहः । ललनोरस्कः पायात् जलरुहदललोचनोऽपायात् ॥ २३२० ॥ ( IS दिविजभूमिरुहः कल्पतरुः अपायात् पायादिति योजना | अत्र तुरीयपाद आद्यपादत्रितये गोपितः । गोपितानां पादवर्णानां नात्रं क्रमनैयत्यमिति ध्येयम् ॥ 236 अथ क्रियावश्ञ्चनचित्रम् क्रियादिकं विद्यमानमपि संदर्भकौशलात् । स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ॥ पद्ये विद्यमानमपि क्रियादिकं आदिशब्देन कारकसंबन्धामन्त्रणादेस्संग्रहः । पदसंदर्भचातुर्यात् स्फुटं न दृश्यतेचेत् तत्क्रियादिवञ्चनं नाम चित्रम् ॥ 1 यथा कमलाक्ष तत्र कटाक्षाः कृतहृदयग्रन्थिबन्धपरिमोक्षाः । विशयमवश्यन्त्वखिलं विशदमवतु सर्वकर्म च मे ॥ २३२१ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy