SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ शब्दालकारसरः (१२२) 235 तत्र गूढप्रथमं यथा-- अशिथिलगुणानुबन्धां शिथिलितवन्दारुबन्दभवबन्धाम् । अविकलसदवनसन्धां विनुवन्प्रगुणां श्रियं जन इहेन्धाम् ॥२३१७ ॥ अविकला सदवने साधुरक्षणविषये सन्धा प्रतिक्षा यस्यास्ताम्। प्रगुणां ऋजुप्रकृति आर्जवं च मनोवाकर्मणामैकरूप्यं 'ऋजापजिंहप्रगुणो' इत्यमरः । श्रियं विनुवन् अभिष्टुवन् जनः इन्धां ऐश्वर्यादिभिर्दीप्यताम् । अत्र प्रथमपादवर्णा अवशिष्टपादेषु गूढाः॥ गूढद्वितीयं यथा भव्याब्जभानुमाली भाव्याकृतिरादधाति वनमाली। स्तवनकदखिलबुधालीधृति मुरारातिरनघगुणशाली ।। २३१०॥ ___ भव्यं जगतां क्षेममेव अब्जं तस्य भानुमाली । भाव्या ध्यानार्दा आकृतिः यस्य सः अनघगुणशाली मुरारातिः स्तवनकृतां अखिलबुधानां आल्याः पङ्क्तेः धृतिं धैर्य धारणं वा आदधातीति योजना । अत्र द्वितीयपादवर्णाः पादान्तरेषु गूढाः ॥ गूढतृतीयं यथाविजिगीषतां दिविषदां स्वाराज्यश्रीर्यया पुरा जुगुपे । श्रीर्मा देवी जुषतां सा देशिकवीक्षणात्तशर्माणम् ॥ २३१९ ॥ 18*
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy