SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 220 अलकारमाणहारे अहं भवाब्धि तरितास्मि तरिष्यामि ‘तृ प्लवनतरणयोः' अस्माद्धातोलृट् । कथं तरितासीत्यत्राह-हे मातः ! तव 'संसारार्णवतारिणीम्' इति प्रसिद्धाया इति भावः । अपाङ्गकेन कटाक्षेण तरिता नौत्वं 'मियां नौस्तरणिस्तरिः' इत्यमरः। इता प्रप्ता । स्वत्कटाक्षे नौत्वमवलम्बमाने कथमहं भवाब्धिं न तरेयमिति भावः। इतः परं मम भविता संसारिता कथमिव भविता भविप्यति । भवतेलृट् । कुतो न भवेदित्यत्र उपन्यस्तेऽपि पूर्व हेतौ दाढाय हेत्वन्तरं चोपन्यस्यति-हि यतः निश्श्रेयसं मुक्तिः संभविता संभविष्यतीति। अत्र युग्मयोः पादयोराद्यभागस्यान्त्यभागे अवृत्तिरितीदं एकपादगतभामान्योन्यापेक्षं यमकम् । प्रथमतृतीयपादादिभागयोद्वितीयतुरीयपादादिभागे आत्तिरिति पादान्तरभागापेक्षयमकं चात्र संकीर्णम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ यथावा मधुनाशन शुचमधुना मधुना त्वद्दिव्यतरच. रितमधुना। भवता शुभलाभवता भवतापो मे निरासि हृदि अवता ॥ २२९९ ॥ शुवं अधुना इति छेदः । हृदिभवता हृदयस्थितेन भवतेति योजना ॥ ___ यदि तु न समुद्रवेद्भुवि हृदयालु दयालु तत्परं ब्रह्म । जगति न समुद्भवेद्रवपतयालुतया लुठन् जनो जातु ॥ २३०० ॥ तत् हृदयालु परं ब्रह्म दयालु सत् भुवि अस्यां भूमौ यदि तु न समुद्भवेत् अर्चात्मना वेंकटाचलादौ नावतरेच्चत् भवे संसारे
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy