SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 211 यं जन्तुं सलोकस्य भावः सालोक्यं न सालोक्यं असालोक्यं आलोको दर्शनं कटाक्षाविषयतामित्यर्थः नयसे स जन्तुः यमसालोक्यं कृतान्तसलोकतां भजेत । यं परमपदं दिव्यं स्थानं गमयसि सः संसरणविपदः संसारापदः पदं स्थानं न पदं अपद अविषय इति यावत् स्यात् संमृतिक्लेशान्पुनर्नानुभवेदित्यर्थः॥ यथावा त्वं ननु बहुलाघवतो बहुलाघवतोऽपि बत नताञ् जननि। शौरे रक्षसि दयिता रक्षसि दयिताऽसि किमथवाऽऽश्चर्यम् ॥ २२८३ ॥ ____ ननु जननि बहुलाघवतः अतिलाघवेन सार्वधिभक्तिकस्तसिः । अतिमात्रचित्तचापलनेति भाव । बहुलं अधिकं अघं पापमषामस्तीति बहुलाघवतोऽपि नतान् शरणागतान् शौरेर्दयिता त्वं रक्षा सि। बत अघवतामपि रक्षणमाश्चर्यावहमिति भावः । स्वयमेव समाधत्ते- अथवेति । रक्षसि काकासुर एव वा रावण एव व. दयिता दयमाना असि दयते: कर्तरि क्तः दयाऽस्यास्संजाता दयितेति वा तारकादित्वादितच् । इदं च पाद्मरामायणयोः स्पष्टम् । अतः अघवतामपि विनतानां रक्षण किमाश्चर्यमिति भावः। पूर्ववदेवेदं यमकं, षण्णामक्षराणामावृत्तिः परं विशेषः ॥ यथावा दिव्यास्सुतरामहतीस्सुतरा महतीस्सदाऽखिलाशक्तीः । भृशमवितथा दधानं तथाऽऽदधानं श्रियं जयतु दैवम् ॥ २२८४ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy