SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 210 अलकारमणिहारे दना समं सर्व जगत् आनयति जीवयतीति समानना कर्तरि ल्युः । 'समं सर्वम्' इत्यमरः । मा श्रीः मा मां जुषतां सेवताम् । मा जुषतामिति पदाभ्यां 'श्रीर्मा देवी जुषताम् ' इति श्रुतिखडः प्रत्यभिज्ञाप्यते । यां अमराधिनाथ: इन्द्रः समाननाम सम्यक् प्रणतवान् शरणं गत इत्यर्थः । अत्रापि पूर्ववदेव यमकम् । पश्चानां वर्णानामावृत्तिरिति पूर्वस्माद्वैलक्षण्यम् ॥ न भयानकाद्रवेयं न कावेयं यमं समीक्ष्यास्मात् । नो यदि स वै नते यः सवैनतेयः प्रभुईदात्यभयम् ॥ २२८१ ॥ यम काद्रवेयं यमरूपमाशीविषमिति व्यस्तरूपकम् समीस्य भयानकात् अस्मात् न द्रवेयमिति न किंतु द्रवेयमेव । नते शरणागते विषये यः प्रभुः अभयं ददाति सवैनतेयः वैनतेयस. हितः सः प्रभुः भगवान् नो वै यदि नैव चेत् न द्रवेयमिति नेति योजना। अत्र प्रथमपादान्त्यभागः पञ्चवर्णात्मको द्वितीयपादादिभागे आवर्त्यते । एवमुत्तरार्धेऽपि विभिन्नानुपूर्वकिपञ्चवर्णावृत्तिरिति पूर्वेभ्यो विशेषः । एवमग्रेऽपि । सवैनतेयः इत्यत्र ‘वा शरि' इति पाक्षिकः विसर्जनीयस्य विसर्जनीयः यमकावरूप्यायष्टव्यः ॥ यथावा नयसे यमसालोक्यं यमसालोक्यं भजेत स हि जन्तुः । गमयसि यं परमपदं परमपदं स्यात्स संसरणविपदः॥ २२८२॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy