SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 206 अलकारमणिहारे तथफलमिदमेकमेव सेवन्तां सर्वाधिकारिकत्वादस्य 'अमयं सर्वभूतेभ्यो ददाम्येततं मम' इति तेनैव प्रतिज्ञातत्वादपक्षितसकलफलदानधौरेयत्वाञ्चोति भावः। अत्राद्यपादमध्यभागगताः जायते इति त्रयो वर्णा एव पादान्तरमध्यभागे यम्यन्त इति मध्ययमकमिदम् ॥ यथावा सरसी विसारसारससौगन्धिकसारसारहितवत्तिः। भाति घनसारसारसुशाती सरसा रसारमण तेऽद्रौ ॥ २२७४ ॥ रसायाः भूदेव्याः रमण वल्लभ! 'विष्णुपत्नी महीं देवीं माधवीं माधवप्रियाम्' इति श्रुत्या तस्या भगवत्प्रियात्वस्योक्तत्वादस्यापि तद्वल्लभत्वमित्यभिप्रायेण तथा संबोधनम् । हे भूवराहेति वा । ते तव अद्री शेषाचले इत्यर्थः । विसाराः मीनाः सा रसाः पुष्कराह्वखगाः सौगन्धिकानि कहाराणि सारसानि पद्मानि तैः अरहिता वृत्तिः स्थितिः यस्यास्सा तयुक्तेत्यर्थ: । घनसारस्य कर्पूरस्य सारः स्थिरांशः स इव सुशीता अतिशिशिरा सरसा रसेन मधुररसेन सह वर्तत इति तथोक्ता च । सरसी स्वामिपुष्करिणी भाति । अत्र प्रथमपादमध्यभागस्य सारसारेतिवर्णद्वययमकरूपस्य द्वितीयादिपादमध्यभागे यमनान्मध्ययमकविशेष इतेि पूर्वस्माद्विशेषः॥ यथावा शरणरणश्रवणक्षणचरणरणत्कटकमतिजवादेत्य । नीरणरणकितविचकितवारण रणधुर्य देव भव शरणम् ॥ २२७५॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy