SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः ( १२२) तस्याः महाभरणं शिरोमणिमित्यर्थः । नरसखं नारायणं शरणं रक्षितारमुपायं वा आपत् प्राप्नोत् । रक्षितृत्वेन वा उपायत्वेन वा अवृणोदित्यर्थः । स पुमान् कदापि आपदां शरणं निवासभूतं सकलविपज्जन्मभूमिमित्यर्थः । भवं संसारं न भजेत | भगवति न्यस्तरक्षाभरस्य क्व पुनस्संसृतिसृत्यवतार इति भावः । भगवन्तं शरणमुपेयिवान् भवं शर्वे आपच्छरणं कदाऽपि न भजेत आपत्सु रक्षकतया न सेवेतेति च प्रतीयते । अत्र पूर्वार्धे उत्तरार्धे च चरमभागे यमकम् ॥ अथ मध्यभागयमकम् 205 यथा रघुजाय ते नमस्स्तान्न जायते यन्मुधा कदाचिदपि । जलजायतेक्षण जनवजा यतेरन्विधातुमिदमेव ॥ २२७३ ॥ हे जलजायतेक्षण ! अनेन प्रपन्नेष्वतिप्रसन्नत्वं व्यज्यते । रघुजाय शरणवरणधर्म प्रवर्तनधुरीणरघुवंशजत्वकथनेनास्यापि ताहशतदीक्षितत्वं द्योतितम् । अतएव 'सर्वलोकशरण्याय राघवाय' इत्युक्तिः । ते तुभ्यं नमः ' निवेदयत मां क्षिप्रम्' इत्युक्तमात्मनिवेदनं ‘नमस्कारात्मकं तस्मै विधायात्मनिवेदनम्' इति च्यते । स्तात् भवतु । किं तेनेत्यत्राह-यत् नमस्करणं कदाचिदपि मुधा न जायते विरर्थकं न संपद्यते । फलेग्रहितामेव भजत इति भावः । स्वानुष्ठितमात्मनिवेदनमेव सर्वैरनुष्ठेयमिति 'प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम्' इति न्यायेनाशास्ते—जनेत्यादिना । जनव्रजाः पामरपरीक्षकसाधारण्येन सर्वे जननिवहाः इदमेव भगवते आत्मनिवेदनमेव विधातुं यतेरन् प्रार्थनायां लिङ् । यतन्ताम् । किमन्यैर्न्यभिचरितप्रयोजनैरुपायैः अवि
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy