SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 192 अलङ्कार मी हारे यथावा भूष्णुस्स्याद्यो मनुजो भवति स दामोदरहितताश्रेयान् । यो मनुजोऽभूष्णुस्स च भवति सदामोदरहितताश्रेयान् ॥ २२५४ ॥ 6 यः मनुजः भूष्णुः वर्विष्णुः स्यात् सः दामोदराय हितः दामोदरहितः 'हितयोगे च' इति चतुर्थी । चतुर्थी तदर्थ' इत्यादिना समासः । तस्य भाव दामोदरहितता तया श्रेयान् प्रशस्यतरः भवति । यो मनुजः अभूष्णुः स च संश्चासावामोदश्च सदामोदः प्रशस्तानन्दः तेन रहिततया विधुरतया अश्रेयान् अविद्यमानं श्रेयो यस्य तथाभूतः भवति । ' ईयसश्च' इति बहुव्रीहेर्न कप् ॥ यथावा त्वयि यो ऽच्युताभिदध्यादन्तर्यामीति शब्दमात्रमपि । तां श्रियमेति स न विशेदन्तर्यामीति शब्दमात्रमपि ।। २२५५ ।। हे अच्युत ! त्वयि विषये अन्तर्यामी अन्तर्नियन्तेति शब्दमात्रमपि यः अभिदध्यात् । मा स्म तदर्थं ज्ञासीदिति भावः । सः पुमान् तां श्रियं संपदं पति प्राप्नोति । यां श्रियं ईतिशब्दमात्रमपि विप्लवशब्दमात्रमपि अन्तः न विशेत् किमुत तदर्थः । त्वयि अन्तयमीति शब्दमात्रं प्रयुआनोऽपि निरातङ्कां श्रियमैहिकीमामुष्मिकीं वा प्राप्नोतीति भावः । 'ईतिडिम्बप्रवासयो:' इत्यमरः । डिम्बो विप्लवः 'डिम्बे डमरविप्लव' इति तेनैवानुशिष्टत्वात् ॥ यथावा यः फणिशैलनिवेशे श्रीशेऽवधिरहितवर्धने
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy