SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 189 एकैकपादे नियता नियतक्रमशालिनः । यम्यन्ते चेदादिमध्यान्त्यभागास्तद्भिदाश्शतम्॥ यदा त्वेकैकस्मिन्नेव पादे आदिमध्यान्त्यभागानां नियतकमत्वेन अनियतकमत्वेन च यमनं तदा शतं अनेके भेदास्संभवन्ति । एते यमकप्रभेदाः काव्यलक्ष्मीकण्ठगडुभूततया न प्रपश्चनार्हा इति दिङ्मात्रमेवोदाह्रियते ॥ पुरुषस्समाहितमना यस्सेवेताहिशैलमौलिमणिम् । पुरुषस्स माहितमनास्तस्मै किं किं पदं न विदधीत ॥ २२५० ॥ यः पुरुषः मनुजः समाहितमनाः प्रणिहिनचित्तस्सन् अहिशैलमौळिमणिं सेवेत तस्मै पुरुषाय स: ‘सकलफलप्रदो हि विष्णुः' इति प्रसिद्धः माहितमनाः मायै श्रियै हितं प्रियं करणं मनो यस्य सः । अनेन पुरुषकारसांनिध्यं तत्प्रीत्याचरणैकतानत्वं चोतम् । पुरुषः भगवान् किं किं फल न विदधीत 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्युक्तेरिति भावः ॥ रत्नपर्वतमारुह्य यथा रत्नं नरो मुने । सत्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥ इत्यादिकमप्यत्रानुसंधेयम् ॥ यथावानाशमितोऽभवदमुना भवता मम तावदखिलदुरितौघः । नाशमितो भवदमुना भविता फणिशैलनीलजलद हरे ॥ २२५१ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy