SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 187 भेदौ' तृतीयपादस्य चतुर्थपादे आवृत्तावेक इति शुद्धाः पादावृत्तिनिबन्धना भेदास्सप्त । तथा प्रथमस्य द्वितीये तृतीयस्य चतुर्थे चावृत्तावेकः । तथा प्रथमस्य चतुर्थे द्वितोयस्य चतुर्थे द्वितीयस्य तृतीये चावृत्तावपर इति संकीर्णों द्वौ भेदो। आहत्य पादावृत्तिनिबन्धना भेदा नव संपद्यन्ते । इदमुपलक्षणम् । यथाहि प्रथमपादस्य द्वितीयादिपादेषु क्रमेण योगपद्येन चावृत्तौ चत्वारो भेदा उक्ताः । तथा प्रथमस्य द्वितीयतृतीययोर्द्वितीयचतुर्थयोः तृतीयचतुर्थयोश्चात्तावन्येऽपि त्रयो भेदास्संभवन्ति । तथा द्वितीयस्य तृतीयचतुर्थयोः क्रमेणारत्तौ भेदद्वयवत् युगपदावृत्तावपरोपि भेदस्संभवतीति ध्येयम् ॥ __ अथ पादभागावृत्तियमकविभागः. द्विधा विभागे पादानां प्रथमाद्यादिमा यदि । द्वितीयाद्यादिभागेषु यम्यन्ते स्युभिदा दश । प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः। भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥ एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् । त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां कमात् ॥ पादानां द्विधा विभागे प्रथमपादाद्यभागस्य द्वितीयादिपादाद्यभागेषु क्रमेण युगपञ्चासत्तौ चत्वारो भेदाः। द्वितीयपादाद्य. भागस्य तृतीयचतुर्थपादाद्यभागयोः क्रमेणावृत्तौ द्वौ भेदौ । प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावकः । तथा प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे द्वितीयपादाद्यभागस्य तृतीय 15*
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy