SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 165 तुरुपपदं यस्य तस्मिन् धातौ प्रकृतिभूते मध्यमस्स्यात् । मन्यतेस्तूत्तमस्स्यात्स चैकार्थवाचकस्स्यात्' इति तदर्थः। तथैव यतेथाः। अरे मुग्ध ! पुनस्संबोधनं परिहासातिशयं द्योतयति । नरेश्वरतां प्राप्स्यसि लप्स्यसे इति मन्ये अहं जानामीत्यर्थः । हार्दोऽभिप्रायस्तु-अरेनरेश्वरतामिति समस्तं पदम् । अरेः रेषविधुरा या नरेश्वरता नश्वरतेत्यर्थः। तां प्राप्स्यास भगवत्यौदासीन्येन दुर्देवता यदि भजेथाः तर्हि क नरेश्वरता लभ्येत । किंतु नश्वरतैवेति भावः । अत्र अरेनरेश्वरतामिति श्लेषः समालंकारविशेषस्याङ्गं, अयं च संकरः यमकेनैकवाचकानुप्रविष्टः ॥ यथावाग्रस्तो जरादिभिस्त्वां विमायमेनं नमेयमाविभक्तिः । पुनरपि तव धानि परे विराजमानं न मा जरा विशतु हरे ॥ २२२४॥ हे हरे! जरादिभिः आदिशब्देन गर्भजन्मादिकं गृह्यते । ग्रस्तः अहं विभ्रंशिता माया येन सः विमायः तं निश्शेषप्रकृतिबन्धविनिवर्तकमित्यर्थः । मायाशब्दः प्रकृतिवाची । 'मायां तु प्रकृति विद्यात्' इति श्रुतेः। एनं त्वां आविर्भक्तिः प्रादुर्भूतभक्तिस्सन् नमेयं शरणं व्रजेयम् । एवमुपायं प्रार्थ्य फलं प्रार्थयते। परे तव धाम्नि विराजमानं अकर्मवश्यतया प्रकाशमानं ‘स स्वराड्भवति' इति श्रुतिरिहानुसंहिता । मा मां जरा जरोप. लक्षितगर्भजन्मादिकं पुनरपि न विशतु । त्वय्यात्मनिक्षेपावधिकमेव हि प्रकृतिबन्धमूलकं गर्भजन्मजरामरणादिपीरवर्तनमिति भावः । अत्र पूर्वार्धवाक्यार्थहेतुकः उत्तरार्धव.क्यार्थ इति काव्य
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy