SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ रसवदलंकारसरः (१०५) विभावादिपरामर्शजीवितावधेरङ्गता न संभवति । तथाऽपि रसस्थायिभावस्यागतया रसाङ्गत्वोपचार इत्याहुः ॥ यथावा परसुमहाज्याकर्षणरासोनहानि रघुकुलविवस्वन् । लोष्टानीव महान्ति क्षपाचरशिरांसि कोटिशोऽत्सीः ॥ २००५॥ हे रघुकुलविवस्वन् ! परेषां द्विषतां सुमहती या आजिः युद्धं तस्याः आकर्षणे समीपानयने विषये रभसेन वेगेन हर्षेण वा उन्नद्धानि गर्वितानि उत्क्षिप्तानि वा पक्षे सुमहत्याः अतिविपुलायाः ज्यायाः क्षितेः कर्षणरभसेन हलमुखविलेखनवेगेन उन्नद्धानि उदस्तानि महान्ति बृहन्ति कोटिशः असङ्ख्याकानीति यावत् । 'बह्वल्पार्थात् ' इति शस् । क्षपाचराणां दशाननादिनिशाचराणां शिरांसि कोटिशः लोष्टभेदनलगुडविशेषः ‘कोटिशो लोष्टभेदनः' इत्यमरः । कोटिरस्यास्तीति कोटिशः। लोमादित्वान्मत्वर्थीयश्शप्रत्ययः । लोष्टानीव मृत्खण्डानीव अभैत्सीः व्यदीदरः । अत्र भगवद्गतवीररसः कविगततद्विषयकरतिभावस्याङ्गम् ॥ यथावा- भवता शमिते समितौ दशवदने देव कृतजगत्कदने । दुन्दुभिरतिवेलाद्भुतकोलाहलशबालतोऽनदन्मरुताम् ॥२००६॥ देवेति संबुद्धिः । अत्र श्रीरघुनन्दनविषयकत्रिदशगतरतिभावस्य तद्तवीररसोऽङ्गम् ॥ इत्यलंकारमणिहारे रसवदलंकारः पश्चाधिकशततमः.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy