SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे इति भरतमुनिना विरुद्धाविरुद्धसजातीयाविजातीयभावान्तरातिरस्कृतानन्दसूक्ष्मावस्थात्वेन लक्षिताः स्थायिनो नाम भावाः । तेषां चेतोवृत्तिविशेषाणां कारणकार्यसहकारिणः विभावानुभावव्यभिचारिभावशब्दैः काव्ये नाट्ये च प्रतिपाद्यन्ते । तद्यथारतिर्नाम स्थायी भावः तस्याः रतेः कारणानि लोकसिद्धानि तरुणनायकरहोदेशावस्थानकोकिलालापमाकन्दमन्दमारुतचन्द्रो-- दयमधुकरलतागृहवापीजलदस्तनितादीनि । तत्कार्याणि दर्शनस्पर्शनोपगृहनचुम्बनभुजवेल्लनादीनि । सहकारिणो निर्वेदादिभेदेन प्रयस्त्रिंशत् । यथा निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहस्स्मृतितिः ॥ बीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तिर्विबोधी हर्षश्चाप्यवहित्थमथोग्रता। माताधिस्तथोन्मादस्तथा मरणमेव च ॥ .. त्रासश्चैव विकल्पश्च विशे या व्यभिचारिणः। . प्रयस्त्रिंशदमी भावास्समाख्यातास्तु नामतः ॥ ..इति मुनिना लक्षिताः। एते च यथासंभवं नवानामपि स्थायिनां सहकारिणः । प्रकृते रतिरूपशृङ्गारस्थायिनः औत्सुक्यविस्मयावेगहर्षचपलतादयस्सहकारिणः । हासरूपस्थायिनो विकृतवस्तुदर्शनादयो विभावाः । वदनविकासनरदनप्रकाशनप्रभृतयोऽनुभावाः चापलत्रासादयो व्यभिचारिण इति। अनयैव दिशा रसान्तराणामपि विभावादयो रसाणवसुधाकरादिप्रबन्धदर्शिभिरुनेयाः । एवममीभिर्विभावानुभावव्यभिचारिभिः काव्य
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy