SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ संकरसर : ( १२१ ) वकाररहितः । नशब्दपूर्वको बहुव्रीहिः । विहितः विः विकारः हितः वकारस्थान एव निहितः यस्य स तथोक्तस्सन् वितंसतां वितंसशब्दतां ऐषीदित्यर्थः । अत्र व्रजतरुणीहरिणीनामिति रूपकं वितंसतामिति पदार्थवृत्तिनिदर्शनाया अङ्गम् ॥ यथावा 89 त्वय्यात्मशिखान्तस्थे विद्युदिवान्तस्थनीलजलदाऽस्तु । अन्तस्थनीलतोयदविद्युदसि त्वं कथं नु परमात्मन् ॥ २१४० ॥ हे परमात्मन्! अनेन ' तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतपरमात्मशब्दः प्रत्यभिज्ञाप्यते । आत्मशिखा 'तस्य मध्ये वह्निशिखा' इत्युक्ता प्रत्यगात्मरूपा ज्वाला 'वह्निशिखा वह्नेश्शिखा आत्मज्वाला' इत्युपनिषद्भाष्यम् । त्वयि नीलतोयदश्यामलदिव्यविग्रहे इति भावः । अन्तस्थे सति 'तस्याश्शिखायाः ' इत्युक्तरीत्या अन्तर्विद्यमाने अन्तस्थः नीलजलदः यस्यास्सा तथोक्ता विद्युदिवास्तु 'नीलतोयदमध्यस्था विद्युल्लेखंव भास्वरा' इति श्रुते: “नीलतोयदश्यामलभगवद्विग्रहाश्रयत्वान्मध्यस्थन(लतोयदविद्युन्निभेत्यर्थः । मध्यस्थेति नीलतोयदविशेषणस्य पूर्वनिपाताभावश्छान्दसः" इत्युपनिषद्भाष्यकारैरभाषि । अभूतोपमेवम्। त्वं अन्तस्थनीलतोयद विद्युत् कथं नु असेि । आत्मशिखामध्ये नीलतोयदनिभस्य भवतोऽवस्थानात्सा अन्तस्थनीलतोयदद्विदिव प्रकाशतां नाम तव तथा प्रकाशः कारणाभावाद्विस्मयावह इति भावः। वस्तुतस्तु अन्तस्थः नीलतोयदशब्दः यस्य सः विद्युत् विद्युच्छन्दः विद्युदिति वर्णमध्ये नोलतोयदशब्दनिवेशे विनीलतो2 ALANKARA IV.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy