________________
64
अलङ्कारमाणिहारे
. इति भारतोक्तेरिति भावः। 'स्यान्नारकस्तु नरकः' इत्यमरः । मध्येलोपगतः । मध्या स्वर्गपातालयोर्मध्यवर्तिनी या इला भूरिति उपगतः अवगतः ज्ञात इत्यर्थः । नरलोकः मर्त्यलोकः नरको भवतीति किमाश्चर्यम् । महासुखत्वेन पुराणादिप्रतीतस्य स्वर्लोकस्यैव नरकप्रायत्वे दुःखसहस्रनिरन्तरकबळितो मर्त्यलोको नरकप्रायो भवतीति किमु वक्तव्यमिति भावः ॥ __ पक्षे-नाकोऽपि नाक इति शब्दोपि अन्ततः मध्ये इतरः प्राप्तरेफः इतः रः येन स इति विग्रहः । नारक एव नारकशब्द एव भवेत् । नरलोकः नरलोक इति शब्दः मध्ये अन्तराळे लोपगतः लो इति वर्णः अपगतो यस्मात्स तथोक्तः। आहितानेयादराकृतिगणत्वानिष्ठायाः परनिपातः । अपगतलोवर्णः नरक इति निष्पद्यत इति किमाश्चर्यम् ॥
यथावा
शरवस्तव शमितो मुरोऽग्निनिभ इति किमद्रुतं शौरे। स पुरस्कुरुतामन्यं मुरमयमपि मुर्मुरो भव शाम्येत् ॥ १५२५ ॥ ___ हे शौरे! तव शरवर्षेः बाणवषैः सलिलवर्षेश्च । आग्निनिभः मुरः तन्नामा दैत्यः शमित इति किमद्भुतम् । सः मुरः अन्यं मुंर मुरासुरं पुरुस्कुरुतां त्वद्विजयय स्वापेक्षया प्रबलं मुरान्तरमेवाग्रे कुरुतां प्रैषातिसर्ग' इत्यादिना अतिसर्गार्य लोट् । अतिसर्गः कामचारानुज्ञा । सोऽपि अन्यो मुरोऽपि मुर्मुरः तुषाग्निः भवन् शाम्येत् । 'मुर्मुरस्तु तुषानलः' इति विश्वः । पक्षे मुर इति शब्दः अन्यं स्वापेक्षया भिन्नं मुरं मुर्