SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ काव्यार्थापत्तिसरः ६१) यथावाकरिकुम्भविजयिनस्तब हरिमहिळे परमुरोजयुगळस्य । अचलविजयः कियान् स्याद्यदसावविरेव विश्रुतो जगति ॥ १५२३ ॥ अबिरेव श्रुतः मेष इत्येव ख्यातः । अविशब्दो गिरिमेषोभयवाची । 'अवयशैलमेषाः ' इत्यनुशासनात् । करिकुम्भविजयिनो मेषजयः कियानिति भावः । अत्र यद्यपि न गिरिः करिकुम्भतो न्यूनः । येन तजयः कैमुतिकन्यायेन न्यूनस्स्यात् । तथाऽपि अविशब्दप्रतिपाद्यमेषशैलरूपार्थद्वयस्य श्लेषभित्तिकाभे- . दाध्यवसायेनकीकरणान्नयूनत्वमिति ध्येयम् । एवं ‘पटुरूचिना येन जितः कल्यब्जव्यूह एव' इति प्रागुदाहृते पद्यऽपि द्रष्टव्यम् ॥ यथावा --- नाकोऽपि त्वद्वानो नारक एवान्ततो भवेदितरः । मध्ये लोपगतोऽच्युत नरलाको नरक इति किमाश्चर्यम् ॥ १५२४ ॥ हे अच्युत! नाकः स्वर्गोऽपि अन्ततः सम्यग्विमर्श सति तव धान्नः दिव्यस्य स्थानस्य इतरः प्रसिद्धनरकेभ्यो विलक्षणः नारकः नरक एव भवेत् । रम्यानि कामचारीणि विमानानि सभास्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥ एते वै निरयस्तात स्थानस्य परमात्मनः ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy