SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 258 अलङ्कारमणिहारे प्राचां मते त्वेवं लक्षणम् - -- धीयते वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा । पिवस्तुना चेन्मीलितं तदुदाहृतम् ॥ यत्र प्रबलेन केनचिद्वस्तुना स्वाभाविकेनागन्तुकेन वा स्वनिगूह्यवस्त्वन्तरसाधारणेन स्वगतेन तुल्येन लिङ्गेन चिह्नन वस्त्वन्तरं पिधीयते निगूह्यते तत्रोभयत्रापि मीलितं नामालंकारः । वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधानं मीलितमिति निष्कर्षः । न चात्र 'ताटङ्कवज्ररुचिभर' इत्यादिवक्ष्यमाणात्सामान्यान्न वैलक्षण्यमिति वाच्यं, यत्र वस्तुद्वयस्य लिङ्गसाम्ये सति तयोर्मध्ये केनचिद्बलिना तदन्यस्वरूपमेव तिरोधीयते तत्र मीलितं यत्र तु स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिराधानं तत्र सामान्यमिति वैलक्षण्यात् ॥ यथा- काकुत्स्थस्य निसर्गादरुणिमकान्ते विलोचनयुगान्ते । क्रोधोदयं नदीनां नाथो नाविददतश्चिरं स्तब्धः || १८३८ ॥ यथावा लक्ष्म्याः कपोलफलके निसर्गगौरे हिरण्यवर्णायाः । प्रणयाद्रोषो योऽजन्यथोक्षजेनापि स किल नाज्ञायि ॥ १८३९ ॥ यथावा स्मितललितं तव वदनं स्वत एव विकासि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy