SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ मीलितंसरः (८३) 251 अथ मीलितसरः (८२) न दृश्यते भेद एव सादृश्याद्यदि मीलितम् । सहशयोर्वस्तुनोस्साहश्या दानभिव्यक्तौ मीलितं नामालंकारः॥ यथाकाञ्चन्यनुलेपनामह काञ्चनगौरे मुहुस्तव कपोले। विदधानं तददर्शनखिन्नं स्विनं पति हससि पद्मे ॥ १८३६ ॥ हे पद्मे ! काश्चनी हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः । तच्चूर्णमिति यावत् । तस्याः अनुलेपनं परिणयोत्सवादाविति भावः । काञ्चनगोरे तव कपोले मुहुः विदधानं तस्यानुलेपनस्यादर्शनेन सावयाद्विविच्याग्रहणेन खिन्नं तथैव मम प्रयासोऽजनीति खेदशालिनं अतएव स्विनं पतिं हससि । अत्र कमलाकपोलफलकहरिद्राचूर्णानुलेपनयोौरगुणसाम्या दानध्य - घसायः॥ यथावा श्यामलविकसितकुवलयकोमलरूपे निसर्गसुरभिणि ते । अलिके मुरहर मृगमदतिलकमिदं केन नाम जानीयाम् ॥ १८३७ ॥ अत्र श्यामलिमसौरभाभ्यां श्रीनिवासफालमृगमद तिलकयोस्साम्याझेदानध्यवसायः ॥ ALANKARA-III
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy